ExamBharo · UP PGT 2021 — Sanskrit (Series A) · exambharo.com/up-pgt/previous-year-papers/up-pgt-2021-sanskrit-series-a/
Question paper · UP PGT
UP PGT 2021 — Sanskrit (Series A)
17 or 18 August 2021125 questions+3.4 for a correct answer, −0 for a wrong one
Questions from the U.P. Secondary Education Services Selection Board’s paper of 17 or 18 August 2021. Each question’s answer is under it, hidden until you open it, and the full answer key is at the end. Take the paper as a timed practice test to be scored.
The official booklet is a scan with no text, so ExamBharo typed this paper from it by hand. A typing slip is possible; report one through the contact page.
Sanskrit
1. आचार्यमम्मटस्य मतानुसारं, काव्यशास्त्रे ‘ध्वनि’ रिति शब्दः कुत आगतः ?
- (a) न्यायशास्त्रात्
- (b) सांख्यशास्त्रात्
- (c) व्याकरणशास्त्रात्
- (d) मीमांसाशास्त्रात्
Show answer
Answer: (c)
2. कस्मिनुदाहरणे चतुर्थी विभक्तिः ?
- (a) अश्वात् बालकः अपतत्।
- (b) बालकः दुर्जनात् बिभेति।
- (c) तस्यै कन्यायै फलं यच्छ।
- (d) का कन्यां पश्यसि ?
Show answer
Answer: (c)
3. भगवद्गीतानुसारेण रजोगुणात् संजायते
- (a) लोभः
- (b) प्रमादः
- (c) मोहः
- (d) अज्ञानम्
Show answer
Answer: (a)
4. ‘शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम्’ इतीदं वचनमस्ति
- (a) शिशुपालवधे श्रीकृष्णस्य नारदं प्रति
- (b) शिशुपालवधे नारदस्य श्रीकृष्णं प्रति
- (c) अभिज्ञानशाकुन्तले अनसूयायाः दुर्वाससं प्रति
- (d) कुमारसंभवे पार्वत्याः महादेवं प्रति
Show answer
Answer: (a)
5. ‘दीर्घसक्थः’ इत्यस्मिन् उदाहरणे शुद्धो विग्रहो वर्तते ?
- (a) दीर्घौ सक्थौ यस्य सः
- (b) दीर्घाः सक्थाः यस्य सः
- (c) दीर्घे सक्थिनी यस्य सः
- (d) दीर्घे सक्थि यस्य सः
Show answer
Answer: (c)
6. वेदान्तमतेन अज्ञानं नास्ति
- (a) त्रिगुणात्मकम्
- (b) सदसद्भ्यामनिर्वचनीयम्
- (c) अभावरूपम्
- (d) भावरूपम्
Show answer
Answer: (c)
7. कः ‘अन्यादृश एव लोकपालः अपूर्वो विबुधपतिः अदण्डकरो धर्मराजः, अजधन्यः प्रचेताः’ ?
- (a) नलः
- (b) शूद्रकः
- (c) चन्द्रापीडः
- (d) तारापीडः
Show answer
Answer: (a)
8. न्यायः कुत्र प्रवर्तते ?
- (a) उपलब्धेऽर्थे
- (b) अनुपलब्धेऽर्थे
- (c) निर्णीतेऽर्थे
- (d) सन्दिग्धेऽर्थे
Show answer
Answer: (d)
9. काव्यप्रकाशे ‘उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्.’ इति श्लोको निर्दिष्ट उदाहरणरूपेण
- (a) अर्थान्तरसंक्रमितवाच्यध्वनेः
- (b) अत्यन्ततिरस्कृतवाच्यध्वनेः
- (c) संलक्ष्यक्रमव्यङ्ग्यध्वनेः
- (d) असंलक्ष्यक्रमव्यङ्ग्यध्वनेः
Show answer
Answer: (b)
10. न्यायसूत्रानुसारेण प्रमाणानि सन्ति–
- (a) प्रत्यक्षानुमानोपमानशब्दाः
- (b) प्रमायाः कारणानि बहूनि सन्ति
- (c) योग्यता च गुणानामत्यन्ताभावाभावः
- (d) प्रमात्रादिभ्योऽतिशयितत्वादतिशयितं
Show answer
Answer: (a)
11. ‘रमणीयः खल्ववधिर्विधिना विसंवादितः’ कस्येयमुक्तिः ?
- (a) मधुकरिकायाः
- (b) परभृतिकायाः
- (c) सानुमत्याः
- (d) प्रियम्वदायाः
Show answer
Answer: (c)
12. काव्यस्य षड्विधं प्रयोजनं कस्मिन् काव्यग्रन्थे उक्तम् ?
- (a) काव्यालंकारे
- (b) वक्रोक्तिजीविते
- (c) साहित्यदर्पणे
- (d) काव्यप्रकाशे
Show answer
Answer: (d)
13. अभिज्ञानशाकुन्तलमिति नाटके नान्दी अस्ति–
- (a) अष्टापदा
- (b) द्वादशापदा
- (c) त्रयोदशापदा
- (d) अष्टादशापदा
Show answer
Answer: (a)
14. स्रष्टुः आद्या सृष्टिः का ?
- (a) आकाशः
- (b) अग्निः
- (c) जलम्
- (d) पृथिवी
Show answer
Answer: (c)
15. विरतास्वभिधाद्यासु ययाऽर्थो बोध्यते परः, सा वृत्तिः अस्ति–
- (a) तात्पर्या
- (b) लक्षणा
- (c) अभिधा
- (d) व्यञ्जना
Show answer
Answer: (d)
16. ध्वनिपरिवर्तनस्य आभ्यन्तरकारणं नास्ति।
- (a) लिपिदोषः
- (b) प्रयत्नलाघवम्
- (c) काव्यात्मकता
- (d) बलाघातः
Show answer
Answer: (a)
17. फक्प्रत्यययोगाद् निष्पन्नं पदमस्ति
- (a) दाक्षिः
- (b) औडुलोमिः
- (c) गार्ग्यायणः
- (d) गाङ्गः
Show answer
Answer: (c)
18. बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः–इति सुभाषितवचनं कस्मिन् ग्रन्थेऽस्ति ?
- (a) दशकुमारचरिते
- (b) शिशुपालवधे
- (c) अभिज्ञानशाकुन्तले
- (d) मृच्छकटिके
Show answer
Answer: (c)
19. ‘यादवाभ्युदयम्’ कस्य रचना वर्तते ?
- (a) वेदान्तदेशिकस्य
- (b) वस्तुपालस्य
- (c) मातृगुप्तस्य
- (d) भर्तृमेण्ठस्य
Show answer
Answer: (a)
20. ‘रणद्भिराघट्टनया नमस्वतः पृथग्विभिन्नश्रुति मण्डलैः स्वरैः’ – श्लोकांशेऽस्मिन् ‘नमस्वतः’ इति पदस्यार्थोऽस्ति
- (a) आकाशस्य
- (b) मेघस्य
- (c) सूर्यस्य
- (d) वायोः
Show answer
Answer: (d)
21. वाच्य एव वाक्यार्थः इति केषाम् आचार्याणां मतम् ?
- (a) अभिहितान्वयवादिनाम्
- (b) ध्वनिवादिनाम्
- (c) रीतिवादिनाम्
- (d) अन्विताभिधानवादिनाम्
Show answer
Answer: (d)
22. सांख्यकारिकानुसारेण पुरुषबहुत्वमनुमीयते–
- (a) संघातपरार्थत्वात्
- (b) कैवल्यार्थं प्रवृत्तेः
- (c) भोक्तृभावात्
- (d) अयुगपत्प्रवृत्तेः
Show answer
Answer: (d)
23. काव्यप्रकाशानुसारं, परिसंख्याऽलङ्कारस्य कियन्तो भेदाः ?
- (a) त्रयः
- (b) षट्
- (c) चत्वारः
- (d) अष्टौ
Show answer
Answer: (c)
24. कादम्बरी–कथामुखमिति ग्रन्थस्य मङ्गलाचरणमस्ति
- (a) वागर्थाविव सम्पृक्तौ वागर्थ....
- (b) रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ....
- (c) श्रियः कुरूणामधिपस्य पालनीं प्रजासु....
- (d) श्रियः पतिः श्रीमति शासितुं जगत्....
Show answer
Answer: (b)
25. सांख्यदर्शनानुसारं ‘करणं’ कतिविधम् ?
- (a) अष्टविधम् (08)
- (b) दशविधम् (10)
- (c) त्रयोदशविधम् (13)
- (d) षोडशविधम् (16)
Show answer
Answer: (c)
26. ‘उपकृष्णम्’ इति समस्ते पदे किं सूत्रं प्रवृत्तम् ?
- (a) यथाऽसादृश्ये
- (b) अव्ययीभावे चाकाले
- (c) अव्ययीभावश्च
- (d) यावदवधारणे
Show answer
Answer: (c)
27. ‘न प्रभातरलं ज्योतिरुदेति वसुधातलात्’ इतीयमुक्तिरस्ति
- (a) प्रियंवदायाः
- (b) अनसूयाया
- (c) दुष्यन्तस्य
- (d) विदूषकस्य
Show answer
Answer: (c)
28. तुमुन्–प्रत्ययविधिसूत्रमस्ति–
- (a) काल–समय–वेलासु
- (b) युवारनाकौ
- (c) पुवः संज्ञायाम्
- (d) सनाशंसभिक्ष
Show answer
Answer: (a)
29. ‘वाक्यं रसात्मकं काव्यम्’– इतीदं लक्षणं क आचार्यः कृतवान् ?
- (a) दण्डी
- (b) पण्डितराजो जगन्नाथः
- (c) महिमभट्टः
- (d) विश्वनाथ कविराजः
Show answer
Answer: (d)
30. उपपदसमासस्य उदाहरणमस्ति
- (a) कुम्भकारः
- (b) प्राचार्यः
- (c) युधिष्ठिरः
- (d) चिन्मात्रम्
Show answer
Answer: (a)
31. ‘वैदी’ इत्यत्र कः स्त्रीप्रत्ययः प्रयुक्तः ?
- (a) ङीप्
- (b) ङीष्
- (c) ङीन्
- (d) टाप्
Show answer
Answer: (c)
32. श्रीकेशवमिश्रस्य मते साक्षात्कारिणी प्रमा का ?
- (a) आत्मजा
- (b) इन्द्रियजा
- (c) जन्मना
- (d) कर्मणा
Show answer
Answer: (b)
33. संस्कृतप्रायो नटाश्रयः वाग्व्यापारः किं कथ्यते ?
- (a) आरभटीवृत्तिः
- (b) प्रस्तावना
- (c) भारतीवृत्तिः
- (d) पताका
Show answer
Answer: (c)
34. ‘गौर्जल्पति’ इतीदम् उदाहरणं कस्याः लक्षणायाः निदर्शकम् ?
- (a) प्रयोजनवती गौणीसाध्यवसानालक्षण लक्षणायाः
- (b) प्रयोजनवती गौणीसारोपालक्षणलक्षणायाः
- (c) रूढिमती शुद्धासारोपालक्षणलक्षणायाः
- (d) रूढिमती शुद्धासाध्यवसानालक्षणलक्षणायाः
Show answer
Answer: (a)
35. जातस्य को ध्रुवः ?
- (a) विवाहः
- (b) मृत्युः
- (c) गतिरोधः
- (d) विरोधः
Show answer
Answer: (b)
36. अत्र शुद्धवाक्यमस्ति
- (a) सः पितुः सह भ्रम्येत्
- (b) दुर्जनात् शिष्यात् कोऽर्थः
- (c) सः जनकेन सह भ्रमति
- (d) सः पुस्तकः पठति
Show answer
Answer: (c)
37. ‘पर्वतोऽयं वह्निमान्’ –इतीदमुदाहरणं कस्य प्रमाणस्य ?
- (a) प्रत्यक्षस्य
- (b) उपमानस्य
- (c) अनुमानस्य
- (d) शाब्दस्य
Show answer
Answer: (c)
38. ‘सदूषणापि निर्दोषा सखरापि सुकोमला।। नमस्तस्मै कृता येन रम्या.... कथा।।’ उपरिलिखितस्य पद्यस्य रिक्तस्थानं पूरयतु।
- (a) रामायणी
- (b) कादम्बरी
- (c) भागवती
- (d) साहसिकी
Show answer
Answer: (a)
39. असर्पभूतायां रज्जौ सर्पारोपवत् कोऽस्ति?
- (a) विषयः
- (b) अध्यारोपः
- (c) मुमुक्षुत्वम्
- (d) तितिक्षा
Show answer
Answer: (b)
40. कर्मवाच्ये परिवर्तयतु–‘सा बालिका अजां नयति’
- (a) तया बालिका अजा नयति।
- (b) तया बालिकया अजा नीयते।
- (c) सा बालिका अजा नीयते।
- (d) सा बालिकया अजां नीयते।
Show answer
Answer: (b)
41. माघ के शिशुपालवध नामक काव्य में बीस सर्ग हैं ; इत्यस्य वाक्यस्य शुद्धः संस्कृतानुवादोऽस्ति–
- (a) माघस्य शिशुपालवधे विंशतयः सर्गाः सन्ति।
- (b) माघस्य शिशुपालवधे काव्ये विंशतिः सर्गाणि सन्ति।
- (c) माघस्य शिशुपालवधे इति नाम्नः काव्ये विंशतयः सर्गा विद्यन्ते।
- (d) माघस्य शिशुपालवधनामके काव्ये विंशति सर्गाः सन्ति।
Show answer
Answer: (d)
42. ‘पदं हि सर्वत्र गुणैर्निधीयते’; ? – सूक्तिरियं कस्य ग्रन्थस्य वर्तते ?
- (a) उत्तररामचरितस्य
- (b) पञ्चतन्त्रस्य
- (c) हितोपदेशस्य
- (d) रघुवंशस्य
Show answer
Answer: (d)
43. शुद्धं वाक्यम् अभिज्ञायताम्।
- (a) ग्रामस्य परितो मृगा विचरन्ति।
- (b) ग्रामस्य परितो मृगः विचरन्ति।
- (c) ग्रामे परितं मृगा विचरन्ति।
- (d) ग्रामं परितो मृगा विचरन्ति।
Show answer
Answer: (d)
44. नलचम्पूकाव्यानुसारं ‘प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणा वाचः मुखे गृहे स्त्रियः’ कस्मात् कारणात् भवन्ति ?
- (a) भाग्यैः
- (b) पुण्यैः
- (c) सम्यगाचरणैः
- (d) सम्पद्भिः
Show answer
Answer: (b)
45. ‘कुशलः’ इति उदाहरणमस्ति
- (a) अर्थविस्तारस्य
- (b) अर्थसंकोचस्य
- (c) अर्थापकर्षस्य
- (d) एतेषां कस्यापि न
Show answer
Answer: (a)
46. ङीप्प्रत्यययोगाद् निष्पन्नं पदमस्ति
- (a) नदी
- (b) ब्राह्मणी
- (c) तटी
- (d) भवानी
Show answer
Answer: (a)
47. तर्कभाषानुसारेण परार्थानुमानवाक्यं भवति
- (a) द्व्यवयवम्
- (b) त्र्यवयवम्
- (c) चतुरवयम्
- (d) पञ्चावयवम्
Show answer
Answer: (d)
48. दुष्यन्तः कीदृशः नायकः ?
- (a) धीरललितः
- (b) धीरोदात्तः
- (c) धीरप्रशान्तः
- (d) धीरोद्धतः
Show answer
Answer: (b)
49. सांख्यदर्शनानुसारं केषां वृत्तिः आलोचनमात्रम् इष्यते ?
- (a) ज्ञानेन्द्रियाणाम्
- (b) कर्मेन्द्रियाणाम्
- (c) तन्मात्राणाम्
- (d) पुरुषाणाम्
Show answer
Answer: (a)
50. ‘चित्रगुः’ इति पदे समासोऽस्ति–
- (a) कर्मधारयः
- (b) बहुव्रीहिः
- (c) द्विगुः
- (d) अव्ययीभावः
Show answer
Answer: (b)
51. रूपकस्य को भेदोऽस्ति मृच्छकटिकम् ?
- (a) नाटकम्
- (b) प्रकरणम्
- (c) व्यायोगः
- (d) ईहामृगः
Show answer
Answer: (b)
52. “वीणा हि नाम असमुद्रोत्थितं रत्नम्” – इत्युक्तिः कस्य ?
- (a) विदूषकस्य
- (b) शकारस्य
- (c) चारुदत्तस्य
- (d) रेभिलस्य
Show answer
Answer: (c)
53. काव्यप्रकाशाभिमतम् अवरं काव्यं किम् ?
- (a) गुणरहितम्
- (b) समासरहितम्
- (c) अलङ्काररहितम्
- (d) व्यङ्ग्यरहितम्
Show answer
Answer: (d)
54. पुरुषचेतनायाः अस्तित्वसिद्धिनिमित्तं वाक्यमस्ति–
- (a) शक्तस्य शक्यकरणात्
- (b) तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः
- (c) सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा
- (d) भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च
Show answer
Answer: (d)
55. ‘भवितव्यानां द्वाराणि भवन्ति सर्वत्र’– इतीयं सूक्तिः कुत्र वर्तते ?
- (a) मृच्छकटिके
- (b) अभिज्ञानशाकुन्तले
- (c) शिशुपालवधस्य प्रथमे सर्गे
- (d) कादम्बरीकथामुखे
Show answer
Answer: (b)
56. डिम्भादेः स्वक्रियारूपादिवर्णने अलङ्कारो भवति
- (a) स्वभावोक्तिः
- (b) परिसंख्या
- (c) उत्प्रेक्षा
- (d) अतिशयोक्तिः
Show answer
Answer: (a)
57. मम्मटानुसारेण काव्यलक्षणमस्ति
- (a) शब्दार्थौ सहितौ काव्यम्
- (b) वाक्यं रसात्मकं काव्यम्
- (c) तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि
- (d) रमणीयार्थप्रतिपादकः शब्दः काव्यम्
Show answer
Answer: (c)
58. “तत्रापि चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम्” इत्यस्मिन् कथने कस्य ग्रन्थस्य प्रशंसा अस्ति ?
- (a) अभिज्ञानशाकुन्तलस्य
- (b) रघुवंशस्य
- (c) मेघदूतस्य
- (d) ऋतुसंहारस्य
Show answer
Answer: (a)
59. शिशुपालवधमहाकाव्यस्य प्रथमे सर्गे किं छन्दः प्रयुक्तम् ?
- (a) अनुष्टुप्
- (b) वसन्ततिलका
- (c) उपजातिः
- (d) वंशस्थम्
Show answer
Answer: (d)
60. प्रातिपदिकार्थमात्रे प्रथमाया उदाहरणमस्ति–
- (a) उच्चैः
- (b) तटः
- (c) द्रोणो व्रीहिः
- (d) एकः
Show answer
Answer: (a)
61. विकासदृष्ट्या भाषा कया समा ?
- (a) पर्वतः
- (b) नदी
- (c) सागरः
- (d) वृक्षः
Show answer
Answer: (b)
62. ‘देवीं वाचमजनयन्त देवाः’ – इति केन भाषोत्पत्तिसिद्धान्तेन सम्बद्धः ?
- (a) सङ्केत सिद्धान्तेन
- (b) अनुकरण सिद्धान्तेन
- (c) दैवी सिद्धान्तेन
- (d) सङ्गीत सिद्धान्तेन
Show answer
Answer: (c)
63. मृच्छकटिके वसन्तसेनायाः दर्शनं सर्व प्रथमं कस्मिन्नङ्के भवति ?
- (a) प्रथमे
- (b) द्वितीये
- (c) तृतीये
- (d) चतुर्थे
Show answer
Answer: (a)
64. यत्र क्तिन्–प्रत्ययोऽस्ति–
- (a) वैदिकः
- (b) राष्ट्रियः
- (c) कृतिः
- (d) वन्दमानः
Show answer
Answer: (c)
65. ‘रजोजुषे जन्मनि सत्त्ववृत्तये’– अस्मिन् श्लोकांशे ‘रजोजुषे’ इति पदे विभक्तिरस्ति
- (a) चतुर्थी
- (b) प्रथमा
- (c) द्वितीया
- (d) सप्तमी
Show answer
Answer: (a)
66. सांख्यानुसारं विपर्ययस्य कति भेदा भवन्ति ?
- (a) पञ्च
- (b) अष्टाविंशतिः
- (c) नव
- (d) अष्टौ
Show answer
Answer: (a)
67. ‘अग्निरुष्णः कृतकत्वाज्जलवत्’ अत्र ‘कृतकत्वात्’ कीदृशो हेत्वाभासः ?
- (a) कालात्ययापदिष्टः
- (b) अनैकान्तिकः
- (c) उपाधित्वासिद्धः
- (d) व्याप्यत्वासिद्धः
Show answer
Answer: (a)
68. ध्वनिपरिवर्तनस्याऽभ्यन्तरकारणमस्ति
- (a) मुखसुखम्
- (b) शयनसुखम्
- (c) मातृसुखम्
- (d) अर्थसुखम्
Show answer
Answer: (a)
69. अभिधामूला–व्यञ्जनायाः लक्षणमस्ति–
- (a) अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते
- (b) लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम्
- (c) विभावेनानुभावेन व्यक्तः संचारिणा तथा
- (d) तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने
Show answer
Answer: (a)
70. प्रासङ्गिकं प्रदेशस्थं चरितं किं कथ्यते ?
- (a) प्रकरी
- (b) पताका
- (c) अर्थप्रकृतिः
- (d) नियताप्तिः
Show answer
Answer: (a)
71. श्रीमद्भगवद्गीतायाः कस्मिन्नध्याये भगवतो विभूतयो वर्णिताः सन्ति ?
- (a) सप्तमे
- (b) नवमे
- (c) द्वादशे
- (d) दशमे
Show answer
Answer: (d)
72. रिक्तस्थानस्य पूर्तिः क्रियताम् – ‘क्रमादमुं नारद इत्यबोधि ________।।’
- (a) यः
- (b) सः
- (c) नः
- (d) कः
Show answer
Answer: (b)
73. नलचम्पू–काव्यस्यान्यनाम किमस्ति ?
- (a) रामायण चम्पू
- (b) उदयन सुन्दरीकथा
- (c) भागवतचम्पू
- (d) नल–दमयन्ती–कथा
Show answer
Answer: (d)
74. ‘अन्तरान्तरेण युक्ते’ इति सूत्रेण विभक्तिर्विधीयते–
- (a) द्वितीया
- (b) तृतीया
- (c) पञ्चमी
- (d) सप्तमी
Show answer
Answer: (a)
75. साहित्यदर्पणानुसारं लक्षणायाः कियन्तो भेदाः ?
- (a) षट्
- (b) षोडश
- (c) चत्वारिंशत्
- (d) अशीति
Show answer
Answer: (d)
76. अतिशयोक्ति–अलंकारस्य लक्षणमस्ति–
- (a) सिद्धत्वेऽध्यवसायस्य....
- (b) स्वगुणत्यागादत्युत्कृष्टगुणग्रहः....
- (c) उक्त्वा चात्यन्तमुत्कर्ष....
- (d) मीलितं वस्तुनो गुप्तिः केनचित्....
Show answer
Answer: (a)
77. डुकृञ् करणे (कृ) धातुः कस्य गणस्य वर्तते ?
- (a) रुधादिगणस्य
- (b) तनादिगणस्य
- (c) दिवादिगणस्य
- (d) अदादिगणस्य
Show answer
Answer: (b)
78. अभिज्ञानशाकुन्तले ‘कामी स्वतां पश्यति’– इत्युक्तिः कस्य ?
- (a) विदूषकस्य
- (b) राज्ञः
- (c) महर्षेः कण्वस्य
- (d) शारद्वतस्य
Show answer
Answer: (b)
79. शबरसेनापतेः नाम किम् आसीत् ?
- (a) माधव्यः
- (b) मान्धाता
- (c) माल्यवान्
- (d) मातङ्गः
Show answer
Answer: (d)
80. वेदान्तमतमस्ति
- (a) मन आत्मेति
- (b) बुद्धिरात्मेति
- (c) अज्ञानमात्मेति
- (d) प्रत्यक्चैतन्यमात्मेति
Show answer
Answer: (d)
81. श्रीमद्भगवद्गीतायाः कस्मिन्नध्याये भगवान् स्वकीयाम् अष्टधां प्रकृतिं प्रोक्तवान् ?
- (a) षष्ठे
- (b) चतुर्थे
- (c) सप्तमे
- (d) पञ्चमे
Show answer
Answer: (c)
82. “चकासतं चारूचमूरूचर्मणा”–अत्र चमूरू–पदेन कस्य पशोः संकेतः ?
- (a) धेनोः
- (b) मृगस्य
- (c) कुक्कुटस्य
- (d) मयूरस्य
Show answer
Answer: (b)
83. दरिद्रस्य किं शून्यम् ?
- (a) गृहम्
- (b) क्षेत्रम्
- (c) सर्वम्
- (d) उपवनम्
Show answer
Answer: (c)
84. श्रोत्रेन्द्रियेण शब्दस्य प्रत्यक्षं ज्ञानं भवति–
- (a) संयोगसन्निकर्षेण
- (b) समवायसन्निकर्षेण
- (c) संयुक्तसमवायसन्निकर्षेण
- (d) विशेष्यविशेषणभावसन्निकर्षेण
Show answer
Answer: (b)
85. ‘इत्थंभूतलक्षणे’ इति सूत्रेण विभक्तिर्विधीयते
- (a) द्वितीया
- (b) तृतीया
- (c) पञ्चमी
- (d) सप्तमी
Show answer
Answer: (b)
86. विशुद्धसत्त्वप्रधानया– अज्ञानसमष्ट्योपहितं चैतन्यं किं कथ्यते ?
- (a) अव्यक्तमन्तर्यामीजगत्कारणमीश्वरः
- (b) प्राज्ञः
- (c) जीवः
- (d) उपाधिमुक्तं विशुद्धचैतन्यम्
Show answer
Answer: (a)
87. वेदान्तसारे स्थूलशरीरस्य संज्ञा अस्ति
- (a) अन्नमयकोशः
- (b) प्राणमयकोशः
- (c) मनोमयकोशः
- (d) विज्ञानमयकोशः
Show answer
Answer: (a)
88. सांख्यशास्त्रं कस्मात् श्रेयान् ?
- (a) ईश्वरानुग्रहात्
- (b) विहितकर्मणामनुष्ठानात्
- (c) अद्वयतत्त्वस्य ज्ञानात्
- (d) व्यक्ताव्यक्तज्ञविज्ञानात्
Show answer
Answer: (d)
89. कार्याकार्य व्यवस्थितौ किं प्रमाणम् ? (श्रीकृष्णानुसारम्)
- (a) लोकः
- (b) शास्त्रम्
- (c) भार्यावचनम्
- (d) स्वकीयं मनः
Show answer
Answer: (b)
90. “पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति”– अत्र वसानमित्यस्मिन् पदे कः प्रत्ययः ?
- (a) ण्वुल्
- (b) ल्यप्
- (c) अण्
- (d) शानच्
Show answer
Answer: (d)
91. कादम्बरीमतिरिच्य बाणभट्टस्य द्वितीयं गद्यकाव्यं किम् ?
- (a) दशकुमारचरितम्
- (b) वासवदत्ता
- (c) हर्षचरितम्
- (d) तिलकमञ्जरी
Show answer
Answer: (c)
92. साहित्यदर्पणे ‘नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्.’ इति श्लोको निर्दिष्ट उदाहरणरूपेण–
- (a) अनुप्रासस्य
- (b) यमकस्य
- (c) श्लेषस्य
- (d) वक्रोक्तेः
Show answer
Answer: (b)
93. दा–धातु लङ्लकारे, प्रथमपुरुषे, बहुवचने अस्ति–
- (a) अदत्त
- (b) अददाः
- (c) अददुः
- (d) अदत्ताम्
Show answer
Answer: (c)
94. नास्ति अपादानसंज्ञाविधायकं सूत्रम्
- (a) भीत्रार्थानां भयहेतुः
- (b) पराजेरसोढः
- (c) वारणार्थानामीप्सितः
- (d) स्पृहेरीप्सितः
Show answer
Answer: (d)
95. नर्तकी–पदे प्रत्ययोऽस्ति–
- (a) सामान्यप्रकारेण ङीष्
- (b) विकल्पेन ङीष्
- (c) सामान्य प्रकारेण ङीन्
- (d) विकल्पेन ङीन्
Show answer
Answer: (a)
96. ‘बलाबलेपादधुनाऽपि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा।। सतीव योषि प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि।।’ – इत्यत्र कोऽलङ्कारः ?
- (a) अर्थान्तरन्यासः
- (b) दीपकम्
- (c) दृष्टान्तः
- (d) विशेषोक्तिः
Show answer
Answer: (a)
97. रसनिष्पत्तिविषये अभिनवगुप्तस्य सिद्धान्तोऽस्ति
- (a) रसानुमितिवादः
- (b) रसोत्पत्तिवादः
- (c) भुक्तिवादः
- (d) रसाभिव्यक्तिवादः
Show answer
Answer: (d)
98. ‘नादेयम्’ इत्यत्र प्रयुक्तः प्रत्ययः कः ?
- (a) त्यक्
- (b) ढक्
- (c) ठक्
- (d) यत्
Show answer
Answer: (b)
99. “पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव। विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्।।” इतिश्लोके अलङ्कारोऽस्ति
- (a) यमकम्
- (b) श्लेषः
- (c) वक्रोक्तिः
- (d) स्वभावोक्तिः
Show answer
Answer: (b)
100. अत्र अशुद्धवाक्यमस्ति–
- (a) अलं विवादेन
- (b) कर्णेन बधिरः
- (c) कस्मै बालकाय फलं रोचते
- (d) एतस्मै ब्राह्मणं धनं ददाति
Show answer
Answer: (d)
101. ‘कदापि सत्पुरुषाः शोकवक्तव्या न भवन्ति; कस्येयमुक्तिः ?
- (a) विदूषकस्य
- (b) दुष्यन्तस्य
- (c) शार्ङ्गरवस्य
- (d) शारद्वतस्य
Show answer
Answer: (a)
102. ‘राघवपाण्डवीयम्’ कस्य रचनाऽस्ति ?
- (a) सोमेश्वरस्य
- (b) वेदान्तदेशिकस्य
- (c) रत्नाकरस्य
- (d) कविराजस्य
Show answer
Answer: (d)
103. अनर्घराघवनाटकं रचितवान्
- (a) भवभूतिः
- (b) भासः
- (c) विशाखदत्तः
- (d) मुरारिः
Show answer
Answer: (d)
104. क्त–प्रत्ययविधिसूत्रमस्ति
- (a) पुंसि संज्ञायां प्राचेण
- (b) नपुंसके भावे
- (c) ण्यास–श्रन्थो
- (d) गुरोश्च हलः
Show answer
Answer: (b)
105. ‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः’– इत्यत्र कोऽलङ्कारः ?
- (a) रूपकम्
- (b) उत्प्रेक्षा
- (c) उपमा
- (d) यमकम्
Show answer
Answer: (b)
106. उपमानोपमेययोरभेदे सति अलङ्कारो भवति
- (a) उपमा
- (b) रूपकम्
- (c) उत्प्रेक्षा
- (d) सन्देहः
Show answer
Answer: (b)
107. ‘शुष्कः’ इति पदस्य निष्पत्तिरस्ति
- (a) क्तप्रत्यययोगात्
- (b) क्तवतुप्रत्यययोगात्
- (c) शतृप्रत्यययोगात्
- (d) शानच्प्रत्यययोगात्
Show answer
Answer: (a)
108. “स्फुटोपमं भूतिसितेन शम्भुना” इत्यस्मिन् वाक्ये कस्य संकेतः ?
- (a) नारदस्य
- (b) कण्वस्य
- (c) विश्वामित्रस्य
- (d) वशिष्ठस्य
Show answer
Answer: (a)
109. रामायणे शबरीवृत्तान्तः कः ?
- (a) पताका
- (b) पताकास्थानकम्
- (c) प्रकरी
- (d) प्रवेशकः
Show answer
Answer: (c)
110. नलचम्पूकाव्यस्य कर्ता कः ?
- (a) बाणभट्टः
- (b) आशाधरभट्टः
- (c) त्रिविक्रमभट्टः
- (d) महिमभट्टः
Show answer
Answer: (c)
111. ‘पारावारीणः’ इत्यत्र कः प्रत्ययः ?
- (a) अण्
- (b) द्
- (c) घ
- (d) ख
Show answer
Answer: (d)
112. बुद्धचरितमहाकाव्यस्य प्रणेता आसीत्
- (a) अश्वघोषः
- (b) श्रीहर्षः
- (c) बिल्हणः
- (d) बुद्धघोषः
Show answer
Answer: (a)
113. कस्य नाटकस्य मङ्गलाचरणे अष्टविधशिवस्वरूपम् ?
- (a) उत्तररामचरितस्य मंगलाचरणे
- (b) मुद्राराक्षसस्य मंगलाचरणे
- (c) अभिज्ञानशाकुन्तलस्य मंगलाचरणे
- (d) मालविकाग्निमित्रस्य मंगलाचरणे
Show answer
Answer: (c)
114. अनीयर्प्रत्यययोगाद् निष्पन्नं पदमस्ति
- (a) चेयम्
- (b) चेतव्यः
- (c) चयनीयः
- (d) एधितव्यम्
Show answer
Answer: (c)
115. भूधातोः लुट् लकार–प्रथमपुरुषैकवचनस्य रूपमस्ति
- (a) भविष्यति
- (b) भविता
- (c) अभविष्यत्
- (d) भूयात्
Show answer
Answer: (b)
116. श्रियः पतिः श्रीमति शासितुमित्यस्मिन् श्लोकांशे “श्रियः पतिः” अस्ति–
- (a) पार्वत्याः पतिः
- (b) मेनकायाः पतिः
- (c) लक्ष्म्याः पतिः
- (d) शकुन्तलायाः पतिः
Show answer
Answer: (c)
117. ‘धनञ्जयः’ कीदृशो वायुप्रकारः?
- (a) क्षुत्करः
- (b) पोषणकरः
- (c) उद्गिरणकरः
- (d) जृम्भणकरः
Show answer
Answer: (b)
118. सांख्यकारिकानुसारेण सृष्टिर्भवति
- (a) ईश्वरसङ्कल्पात्
- (b) स्वभावात्
- (c) प्रकृतिपुरुषसंयोगात्
- (d) परमाणुसंयोगात्
Show answer
Answer: (c)
119. “भवच्छिदस्त्र्यम्बकपादपांसवः” इति पदे कस्य जय–जयकारः–
- (a) इन्द्रदेवस्य
- (b) अग्निदेवस्य
- (c) शिवस्य
- (d) विष्णोः
Show answer
Answer: (c)
120. ‘किमिव हि मधुराणां मण्डनं नाकृतीनाम्’ इतीयं सूक्तिर्वर्तते
- (a) उत्तररामचरिते
- (b) अभिज्ञानशाकुन्तले
- (c) मेघदूते
- (d) नीतिशतके
Show answer
Answer: (b)
121. बाणभट्टस्य पितुर्नाम आसीत्
- (a) वात्स्यायनः
- (b) कुबेरः
- (c) अर्थपतिः
- (d) चित्रभानुः
Show answer
Answer: (d)
122. ‘वयं फलानि खादामः’ इत्यस्य वाक्यस्य कर्मवाच्ये रूपं भवति।
- (a) मया फलानि खाद्यन्ते।
- (b) अस्माभिः फलानि खाद्यन्ते।
- (c) अस्मभ्यं फलानि खाद्यन्ते।
- (d) अस्माभिः फलं खाद्यते।
Show answer
Answer: (b)
123. सांख्यदर्शनस्य सिद्धान्तोऽस्ति
- (a) सत्कार्यवादः
- (b) असत्कार्यवादः
- (c) विवर्तवादः
- (d) आरम्भवादः
Show answer
Answer: (a)
124. सांख्यदर्शने स्वीकृतानां तत्त्वानां संख्या कियती ?
- (a) अष्टादश (18)
- (b) एकविंशतिः (21)
- (c) द्वाविंशतिः (22)
- (d) पञ्चविंशतिः (25)
Show answer
Answer: (d)
125. ‘रोहिणी’ इत्यत्र कः प्रत्ययः ?
- (a) ङीप्
- (b) ङीष्
- (c) ङीन्
- (d) इनि
Show answer
Answer: (a)
Show answers
Answer key
Answer key from the U.P. Secondary Education Services Selection Board’s official answer key for this sitting. “—” means the key gave none: the question was deleted.
Sanskrit
- Q 1
- (c)
- Q 2
- (c)
- Q 3
- (a)
- Q 4
- (a)
- Q 5
- (c)
- Q 6
- (c)
- Q 7
- (a)
- Q 8
- (d)
- Q 9
- (b)
- Q 10
- (a)
- Q 11
- (c)
- Q 12
- (d)
- Q 13
- (a)
- Q 14
- (c)
- Q 15
- (d)
- Q 16
- (a)
- Q 17
- (c)
- Q 18
- (c)
- Q 19
- (a)
- Q 20
- (d)
- Q 21
- (d)
- Q 22
- (d)
- Q 23
- (c)
- Q 24
- (b)
- Q 25
- (c)
- Q 26
- (c)
- Q 27
- (c)
- Q 28
- (a)
- Q 29
- (d)
- Q 30
- (a)
- Q 31
- (c)
- Q 32
- (b)
- Q 33
- (c)
- Q 34
- (a)
- Q 35
- (b)
- Q 36
- (c)
- Q 37
- (c)
- Q 38
- (a)
- Q 39
- (b)
- Q 40
- (b)
- Q 41
- (d)
- Q 42
- (d)
- Q 43
- (d)
- Q 44
- (b)
- Q 45
- (a)
- Q 46
- (a)
- Q 47
- (d)
- Q 48
- (b)
- Q 49
- (a)
- Q 50
- (b)
- Q 51
- (b)
- Q 52
- (c)
- Q 53
- (d)
- Q 54
- (d)
- Q 55
- (b)
- Q 56
- (a)
- Q 57
- (c)
- Q 58
- (a)
- Q 59
- (d)
- Q 60
- (a)
- Q 61
- (b)
- Q 62
- (c)
- Q 63
- (a)
- Q 64
- (c)
- Q 65
- (a)
- Q 66
- (a)
- Q 67
- (a)
- Q 68
- (a)
- Q 69
- (a)
- Q 70
- (a)
- Q 71
- (d)
- Q 72
- (b)
- Q 73
- (d)
- Q 74
- (a)
- Q 75
- (d)
- Q 76
- (a)
- Q 77
- (b)
- Q 78
- (b)
- Q 79
- (d)
- Q 80
- (d)
- Q 81
- (c)
- Q 82
- (b)
- Q 83
- (c)
- Q 84
- (b)
- Q 85
- (b)
- Q 86
- (a)
- Q 87
- (a)
- Q 88
- (d)
- Q 89
- (b)
- Q 90
- (d)
- Q 91
- (c)
- Q 92
- (b)
- Q 93
- (c)
- Q 94
- (d)
- Q 95
- (a)
- Q 96
- (a)
- Q 97
- (d)
- Q 98
- (b)
- Q 99
- (b)
- Q 100
- (d)
- Q 101
- (a)
- Q 102
- (d)
- Q 103
- (d)
- Q 104
- (b)
- Q 105
- (b)
- Q 106
- (b)
- Q 107
- (a)
- Q 108
- (a)
- Q 109
- (c)
- Q 110
- (c)
- Q 111
- (d)
- Q 112
- (a)
- Q 113
- (c)
- Q 114
- (c)
- Q 115
- (b)
- Q 116
- (c)
- Q 117
- (b)
- Q 118
- (c)
- Q 119
- (c)
- Q 120
- (b)
- Q 121
- (d)
- Q 122
- (b)
- Q 123
- (a)
- Q 124
- (d)
- Q 125
- (a)